|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.148. अध्यायः 148
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति यतिशुश्रूषाप्रशंसनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
`पराशर उवाच।
न तथा सम्प्रदानेन नोपवासादिभिस्तथा।
इष्टां गतिमवाप्नोति यथा शुश्रूषकर्मणा॥ 13-148-1(87158)
यादृशेन तु तोयेन शुद्धिं प्रकुरुते नरः।
तादृग्भवति तद्धौतमुदकस्य प्रभावतः॥ 13-148-2(87159)
शूद्रोप्येतेन मार्गेण यादृशं सेवते जनम्।
तादृग्भवति संसर्गादचिरेण न संशयः॥ 13-148-3(87160)
तस्मात्प्रयत्नतः सेव्या भिक्षवो नियतात्मना।
उदकग्राहणाद्येन स्नपनोद्वर्तनैस्तथा॥ 13-148-4(87161)
अध्वना कर्शितानां च व्याधितानां तथैव च।
शुश्रूषां नियतं कुर्यात्तेषामापदि यत्नतः॥ 13-148-5(87162)
दर्भाजिनान्यवेक्षेत भैक्षभाजनमेव च।
यथाकामं च कार्याणि सर्वाण्येवोपसाधयेत्।
प्रायश्चित्तं यता न स्यात्तथा सर्वं समाचरेत्॥ 13-148-6(87163)
व्याधितानां तु भिक्षूणां चेलप्रक्षालनादिभिः।
प्रतिकर्मक्रिया कार्या भेषजानयनैस्तथा॥ 13-148-7(87164)
पिंषणालेपनं चूर्णं कषायमथ साधनम्।
नान्यस्य प्रतिचारेषु सुखार्थमुपपादयेत्॥ 13-148-8(87165)
भिक्षाटनोऽभिगच्छेत भिषजश्च विपश्चितः।
ततो विनिष्क्रियार्थानि द्रव्याणि समुपार्जयेत्॥ 13-148-9(87166)
यश्च प्रीतमना दद्यादादद्याद्भेषजं नरः।
अश्रद्धया हि दत्तानि तान्यभोक्ष्याणि भिक्षुभिः॥ 13-148-10(87167)
श्रद्धया यदुपादत्तं श्रद्धया चोपपादितम्।
तस्योपभोगाद्धर्मः स्याद्व्याधिभिश्च निवर्त्यते॥ 13-148-11(87168)
आदेहपतनादेवं शुश्रूषेद्विधिपूर्वकम्।
न त्वेवं धर्ममुत्सृज्य कुर्यात्तेषां प्रतिक्रियाम्॥ 13-148-12(87169)
स्वभावतो हि द्वन्द्वानि विप्रयान्त्युपयान्ति च।
स्वभावतः सर्वभावा भवन्ति नभवन्ति च।
सागरस्योर्मिसदृशा विज्ञातव्या गुणात्मकाः॥ 13-148-13(87170)
विद्यादेवं हि यो धीमांस्तत्ववित्तत्वदर्शनः।
न स लिप्येत पापेन पद्मपत्रमिवाम्भसा॥' ॥ 13-148-14(87171)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टचत्वारिंशदधिकशततमोऽध्यायः॥ 148 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|